|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.38. अध्यायः 038
Mahabharata - Sabha Parva - Chapter Topics
आगतान्भीष्णादीन्समान्य तत्तदधिकारेषु तेषांतेषां नियमनम्॥ 1॥ राजसूययागः॥ 2॥
Mahabharata - Sabha Parva - Chapter Text
वैशम्पायन उवाच॥
पितामहं गुरुं चैव प्रत्युद्गम्य युधिष्ठिरः।
अभिवाद्य ततो राजन्निदं वचनमब्रवीत्॥ 2-38-1(12920)
भीष्मं द्रोणं कृपं द्रौणिं दुर्योधनविविंशती।
अस्मिन्यज्ञे भवन्तो मामनुगृह्णन्तु सर्वशः॥ 2-38-2(12921)
इदं वः सुमहच्चैव यदिहास्ति धनं मम।
प्रणयन्तु भवन्तो मां यथेष्टमभिमन्त्रितः॥ 2-38-3(12922)
एवमुक्त्वा स तान्सर्वान्दीक्षितः पाण्डवाग्रजः।
युयोज स यथायोगमधिकारेष्वनन्तरम्॥ 2-38-4(12923)
`पङ्क्त्यारोपणकार्ये च उच्छिष्टापनये पुनः।
भोजनावेक्षणे चैव युयुत्सुं समयोजयत्'॥ 2-38-5(12924)
भक्ष्यभोज्याधिकारेषु दुःशासनमयोजयत्।
परिग्रहे ब्राह्मणानामश्वत्थामानमुक्तवान्। 2-38-6(12925)
राज्ञां तु प्रतिपूजार्थं सञ्जयं न्ययोजयत्।
कृताकृतपरिज्ञाने भीष्णद्रोणौ महामती॥ 2-38-7(12926)
हिरण्यस्य सुवर्णस्य रत्नानां चान्ववेक्षणे।
दक्षिणानां च वै दाने कृपं राजा न्ययोजयत्॥ 2-38-8(12927)
तथाऽऽन्यान्पुरुषव्याघ्रांस्तस्मिंस्तस्मिन्न्ययोजयत्।
बाह्लिको धृतराष्ट्रश्च सोमदत्तो जयद्रथः।
नकुलेन समानीताः स्वामिवत्तत्र रेमिरे॥ 2-38-9(12928)
क्षत्ता व्ययकरस्त्वासीद्विदुरः सर्वधर्मवित्।
दुर्योधनस्त्वर्हणानि प्रतिजग्राह सर्वशः॥ 2-38-10(12929)
`कुन्ती साध्वी च गान्धारी स्त्रीणां कुर्वन्ति चार्चनम्॥
अन्याः सर्वाः स्नुषास्तासां सन्देशं यान्तु माचिरम्।
तिष्ठेत्कृष्णान्तिके सोयमर्जुनः कार्यसिद्धये'॥ 2-38-11(12930)
चरणक्षालने कृष्णो ब्राह्मणानां स्वयं ह्यभूत्।
सर्वलोकसमावृत्तः पिप्रीषुः फलमुत्तमम्॥ 2-38-12(12931)
द्रष्टुकामः सभां चैव धर्मराजं यधिष्ठिरम्।
न कश्चिदाहरत्तत्र सहस्रावरमर्हणम्॥ 2-38-13(12932)
रत्नैश्च बहुभिस्तत्र धर्मराजमवर्धयत्।
कथं तु मम कौरव्यो रत्नदानैः समाप्नुयात्॥ 2-38-14(12933)
यज्ञमित्येव राजानः स्पर्धमाना ददुर्धनम्।
भवनैः सविमानाग्रैः सोदर्कैर्बलसंवृतैः॥ 2-38-15(12934)
लोकराजविमानैश्च ब्राह्मणावसथैः सह।
कृतैरावसथैर्दिव्यैर्विमानप्रतिमैस्तथा॥ 2-38-16(12935)
विचित्रै रत्ववद्भिश्च ऋद्ध्या परमया युतैः।
राजभिश्च समावृत्तैरतीव श्रीसमृद्धिभिः।
अशोभत सदो राजन्कौन्तेयस्य महात्मनः॥ 2-38-17(12936)
ऋद्ध्या तु वरुणं देवं स्पर्धमानो युधिष्ठिरः।
षडग्निनाथ यज्ञेन सोऽयजद्दक्षिणावता॥ 2-38-18(12937)
सर्वाञ्जनान्सर्वकामैः समृद्धैः समतर्पयत्।
अन्नवान्बहुभक्ष्यश्च भुक्तवज्जनसंवृतः।
रत्नोपहारसम्पन्नो बभूव स समागमः॥ 2-38-19(12938)
इडाज्यहोमाहुतिभिर्मन्त्रशिक्षाविशारदैः।
तस्मिन्हि ततृपुर्देवास्तते यज्ञे महर्षिभिः॥ 2-38-20(12939)
यथा देवास्तथा विप्रा दक्षिणान्नमहाधनैः।
ततृपुः सर्ववर्णाश्च तस्मिन्यज्ञे मुदाऽन्विताः॥ ॥ 2-38-21(12940)
इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि अष्टत्रिंशोऽध्यायः॥ 38 ॥ ॥ समाप्तं च राजसूयपर्व॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|